योगदर्शन
![]() |
योगदर्शन |
योगदर्शन वीडियो १ - समाधि पाद सूत्र सहित
प्रथम: पाद: - समाधि पाद:
- अथ योगानुशासनम्
- योगश्चित्तवृत्तिनिरोध:
- तदा द्रष्टु: स्वरूपे अवस्थानम्
- वृत्तिसारूप्यमितरत्र
- वृत्तयः पंचतय्य: क्लिष्टाक्लिष्टा:
- प्रमाण विपर्ययविकल्पनिद्रास्मृतयः
- प्रत्यक्षानुमानागमा: प्रमाणानि
- विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्
- शब्दज्ञानानुपाती वस्तुशून्यो विकल्प:
- अभावप्रत्ययालम्बनावृत्तिर्निद्रा
- अनुभूतविषयासंप्रमोष: स्मृतिः
- अभ्यासवैराग्याभ्याम् तन्निरोध:
- तत्र स्थितौ यत्नो अभ्यासः
- स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढ़भूमिः
- दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्
- तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्
- वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः
- विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो अन्यः
- भवप्रत्ययो विदेहप्रकृतिलयानाम्
- श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्
- तीव्रसंवेगानामासन्नः
- मृदुमध्यादिमात्रत्वात् ततो अपि विशेष:
- ईश्वरप्रणिधानाद्वा
- क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर:
- तत्र निरतिशयं सर्वज्ञबीजम्
- स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात्
- तस्य वाचकः प्रणवः
- तज्जपस्तदर्थभावनम्
- ततः प्रत्यक्चेतनाधिगमो अप्यन्तरायाभावश्च
- व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्ते अन्तरायाः
- दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः
- तत्प्रतिषेधार्थमेकतत्वाभ्यासः
- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्
- प्रच्छर्दनविधारणाभ्यां वा प्राणस्य
- विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी
- विशोका वा ज्योतिष्मती
- वीतरागविषयं वा चित्तम्
- स्वप्ननिद्राज्ञानालम्बनं वा
- यथाभिमतध्यानाद्वा
- परमाणुपरममहत्त्वान्तो अस्य वशीकार:
- क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः
- तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः
- स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का
- एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
- सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्
- ता एव सबीजः समाधिः
- निर्विचारवैशारद्ये अध्यात्मप्रसादः
- ऋतम्भरा तत्र प्रज्ञा
- श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्
- तज्जः संस्कारो अन्यसंस्कारप्रतिबन्धी
- तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः
No comments:
Post a Comment